हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Sri Hanuman Sahasranamavali – श्री हनुमत्सहस्रनामावली
अस्य श्रीहनुमत्सहस्रनामस्तोत्रमहामन्त्रस्य श्रीरामचन्द्र ऋषिः अनुष्टुप्छन्दः श्रीहनुमान्महारुद्रो देवता ह्रीं श्रीं ह्रौं ह्रां बीजं श्रीं इति शक्तिः किलिकिल बुबु कारेण इति कीलकं लङ्काविध्वंसनेति कवचं मम सर्वोपद्रवशान्त्यर्थे मम सर्वकार्यसिद्ध्यर्थे जपे विनियोगः ।
ध्यानम् –
प्रतप्तस्वर्णवर्णाभं संरक्तारुणलोचनम् ।
सुग्रीवादियुतं ध्यायेत् पीताम्बरसमावृतम् ॥
गोष्पदीकृतवाराशिं पुच्छमस्तकमीश्वरम् ।
ज्ञानमुद्रां च बिभ्राणं सर्वालङ्कारभूषितम् ॥
वामहस्तसमाकृष्टदशास्याननमण्डलम् ।
उद्यद्दक्षिणदोर्दण्डं हनूमन्तं विचिन्तयेत् ॥
स्तोत्रं –
हनूमान् श्रीप्रदो वायुपुत्रो रुद्रो नयोऽजरः ।
अमृत्युर्वीरवीरश्च ग्रामवासो जनाश्रयः ॥ १ ॥
धनदो निर्गुणाकारो वीरो निधिपतिर्मुनिः ।
पिङ्गाक्षो वरदो वाग्मी सीताशोकविनाशनः ॥ २ ॥
शिवः शर्वः परोऽव्यक्तो व्यक्ताव्यक्तो धराधरः ।
पिङ्गकेशः पिङ्गरोमा श्रुतिगम्यः सनातनः ॥ ३ ॥
अनादिर्भगवान् दिव्यो विश्वहेतुर्नराश्रयः ।
आरोग्यकर्ता विश्वेशो विश्वनाथो हरीश्वरः ॥ ४ ॥
भर्गो रामो रामभक्तः कल्याणप्रकृतीश्वरः ।
विश्वम्भरो विश्वमूर्तिर्विश्वाकारोऽथ विश्वपः ॥ ५ ॥
विश्वात्मा विश्वसेव्योऽथ विश्वो विश्वधरो रविः ।
विश्वचेष्टो विश्वगम्यो विश्वध्येयः कलाधरः ॥ ६ ॥
प्लवङ्गमः कपिश्रेष्ठो ज्येष्ठो वेद्यो वनेचरः ।
बालो वृद्धो युवा तत्त्वं तत्त्वगम्यः सखा ह्यजः ॥ ७ ॥
अञ्जनासूनुरव्यग्रो ग्रामस्यान्तो धराधरः ।
भूर्भुवःस्वर्महर्लोको जनोलोकस्तपोऽव्ययः ॥ ८ ॥
सत्यमोङ्कारगम्यश्च प्रणवो व्यापकोऽमलः ।
शिवधर्मप्रतिष्ठाता रामेष्टः फल्गुनप्रियः ॥ ९ ॥
गोष्पदीकृतवारीशः पूर्णकामो धरापतिः ।
रक्षोघ्नः पुण्डरीकाक्षः शरणागतवत्सलः ॥ १० ॥
जानकीप्राणदाता च रक्षःप्राणापहारकः ।
पूर्णः सत्यः पीतवासा दिवाकरसमप्रभः ॥ ११ ॥
द्रोणहर्ता शक्तिनेता शक्तिराक्षसमारकः ।
अक्षघ्नो रामदूतश्च शाकिनीजीविताहरः ॥ १२ ॥
बुभूकारहतारातिर्गर्वपर्वतमर्दनः ।
हेतुस्त्वहेतुः प्रांशुश्च विश्वकर्ता जगद्गुरुः ॥ १३ ॥
जगन्नाथो जगन्नेता जगदीशो जनेश्वरः ।
जगत्श्रितो हरिः श्रीशो गरुडस्मयभञ्जकः ॥ १४ ॥
पार्थध्वजो वायुपुत्रः सितपुच्छोऽमितप्रभः ।
ब्रह्मपुच्छः परब्रह्मपुच्छो रामेष्टकारकः ॥ १५ ॥
सुग्रीवादियुतो ज्ञानी वानरो वानरेश्वरः ।
कल्पस्थायी चिरञ्जीवी प्रसन्नश्च सदाशिवः ॥ १६ ॥
सन्मतिः सद्गतिर्भुक्तिमुक्तिदः कीर्तिदायकः ।
कीर्तिः कीर्तिप्रदश्चैव समुद्रः श्रीप्रदः शिवः ॥ १७ ॥
उदधिक्रमणो देवः संसारभयनाशनः ।
वालिबन्धनकृद्विश्वजेता विश्वप्रतिष्ठितः ॥ १८ ॥ [वारि]
लङ्कारिः कालपुरुषो लङ्केशगृहभञ्जनः ।
भूतावासो वासुदेवो वसुस्त्रिभुवनेश्वरः ॥
श्रीरामरूपः कृष्णस्तु लङ्काप्रासादभञ्जनः ।
कृष्णः कृष्णस्तुतः शान्तः शान्तिदो विश्वभावनः ॥ २० ॥
विश्वभोक्ताऽथ मारघ्नो ब्रह्मचारी जितेन्द्रियः ।
ऊर्ध्वगो लाङ्गुली माली लाङ्गूलाहतराक्षसः ॥ २१ ॥
समीरतनुजो वीरो वीरमारो जयप्रदः ।
जगन्मङ्गलदः पुण्यः पुण्यश्रवणकीर्तनः ॥ २२ ॥
पुण्यकीर्तिः पुण्यगीतिर्जगत्पावनपावनः ।
देवेशोऽमितरोमाऽथ रामभक्तविधायकः ॥ २३ ॥
ध्याता ध्येयो जगत्साक्षी चेता चैतन्यविग्रहः ।
ज्ञानदः प्राणदः प्राणो जगत्प्राणः समीरणः ॥ २४ ॥
विभीषणप्रियः शूरः पिप्पलाश्रयसिद्धिदः ।
सिद्धः सिद्धाश्रयः कालः कालभक्षकपूजितः ॥ २५ ॥
लङ्केशनिधनस्थायी लङ्कादाहक ईश्वरः ।
चन्द्रसूर्याग्निनेत्रश्च कालाग्निः प्रलयान्तकः ॥ २६ ॥
कपिलः कपिशः पुण्यरातिर्द्वादशराशिगः ।
सर्वाश्रयोऽप्रमेयात्मा रेवत्यादिनिवारकः ॥ २७ ॥
लक्ष्मणप्राणदाता च सीताजीवनहेतुकः ।
रामध्यायी हृषीकेशो विष्णुभक्तो जटी बली ॥ २८ ॥
देवारिदर्पहा होता धाता कर्ता जगत्प्रभुः ।
नगरग्रामपालश्च शुद्धो बुद्धो निरन्तरः ॥ २९ ॥
निरञ्जनो निर्विकल्पो गुणातीतो भयङ्करः ।
हनुमांश्च दुराराध्यस्तपःसाध्यो महेश्वरः ॥ ३० ॥
जानकीघनशोकोत्थतापहर्ता पराशरः ।
वाङ्मयः सदसद्रूपः कारणं प्रकृतेः परः ॥ ३१ ॥
भाग्यदो निर्मलो नेता पुच्छलङ्काविदाहकः ।
पुच्छबद्धो यातुधानो यातुधानरिपुप्रियः ॥ ३२ ॥
छायापहारी भूतेशो लोकेशः सद्गतिप्रदः ।
प्लवङ्गमेश्वरः क्रोधः क्रोधसंरक्तलोचनः ॥ ३३ ॥
क्रोधहर्ता तापहर्ता भक्ताभयवरप्रदः ।
भक्तानुकम्पी विश्वेशः पुरुहूतः पुरन्दरः ॥ ३४ ॥
अग्निर्विभावसुर्भास्वान् यमो निरृतिरेव च ।
वरुणो वायुगतिमान् वायुः कुबेर ईश्वरः ॥ ३५ ॥
रविश्चन्द्रः कुजः सौम्यो गुरुः काव्यः शनैश्चरः ।
राहुः केतुर्मरुद्दाता धाता हर्ता समीरजः ॥ ३६ ॥
मशकीकृतदेवारिर्दैत्यारिर्मधुसूदनः ।
कामः कपिः कामपालः कपिलो विश्वजीवनः ॥ ३७ ॥
भागीरथीपदाम्भोजः सेतुबन्धविशारदः ।
स्वाहा स्वधा हविः कव्यं हव्यवाहः प्रकाशकः ॥ ३८ ॥
स्वप्रकाशो महावीरो मधुरोऽमितविक्रमः ।
उड्डीनोड्डीनगतिमान् सद्गतिः पुरुषोत्तमः ॥ ३९ ॥
जगदात्मा जगद्योनिर्जगदन्तो ह्यनन्तरः ।
विपाप्मा निष्कलङ्कोऽथ महान् महदहङ्कृतिः ॥ ४० ॥
खं वायुः पृथिवी चापो वह्निर्दिक् काल एकलः ।
क्षेत्रज्ञः क्षेत्रपालश्च पल्वलीकृतसागरः ॥ ४१ ॥
हिरण्मयः पुराणश्च खेचरो भूचरो मनुः ।
हिरण्यगर्भः सूत्रात्मा राजराजो विशां पतिः ॥ ४२ ॥
वेदान्तवेद्य उद्गीथो वेदाङ्गो वेदपारगः ।
प्रतिग्रामस्थितः सद्यः स्फूर्तिदाता गुणाकरः ॥ ४३ ॥
नक्षत्रमाली भूतात्मा सुरभिः कल्पपादपः ।
चिन्तामणिर्गुणनिधिः प्रजाद्वारमनुत्तमः ॥ ४४ ॥
पुण्यश्लोकः पुरारातिः मतिमान् शर्वरीपतिः ।
किल्किलारावसन्त्रस्तभूतप्रेतपिशाचकः ॥ ४५ ॥
ऋणत्रयहरः सूक्ष्मः स्थूलः सर्वगतिः पुमान् ।
अपस्मारहरः स्मर्ता श्रुतिर्गाथा स्मृतिर्मनुः ॥ ४६ ॥
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं यतीश्वरः ।
नादरूपं परं ब्रह्म ब्रह्म ब्रह्मपुरातनः ॥ ४७ ॥
एकोऽनेको जनः शुक्लः स्वयञ्ज्योतिरनाकुलः ।
ज्योतिर्ज्योतिरनादिश्च सात्त्विको राजसस्तमः ॥ ४८ ॥
तमोहर्ता निरालम्बो निराकारो गुणाकरः ।
गुणाश्रयो गुणमयो बृहत्कायो बृहद्यशाः ॥
बृहद्धनुर्बृहत्पादो बृहन्मूर्धा बृहत्स्वनः ।
बृहत्कर्णो बृहन्नासो बृहद्बाहुर्बृहत्तनुः ॥ ५० ॥
बृहद्गलो बृहत्कायो बृहत्पुच्छो बृहत्करः ।
बृहद्गतिर्बृहत्सेवो बृहल्लोकफलप्रदः ॥ ५१ ॥
बृहद्भक्तिर्बृहद्वाञ्छाफलदो बृहदीश्वरः ।
बृहल्लोकनुतो द्रष्टा विद्यादाता जगद्गुरुः ॥ ५२ ॥
देवाचार्यः सत्यवादी ब्रह्मवादी कलाधरः ।
सप्तपातालगामी च मलयाचलसंश्रयः ॥ ५३ ॥
उत्तराशास्थितः श्रीशो दिव्यौषधिवशः खगः ।
शाखामृगः कपीन्द्रोऽथ पुराणः प्राणचञ्चुरः ॥ ५४ ॥
चतुरो ब्राह्मणो योगी योगिगम्यः परोऽवरः ।
अनादिनिधनो व्यासो वैकुण्ठः पृथिवीपतिः ॥ ५५ ॥
अपराजितो जितारातिः सदानन्दद ईशिता ।
गोपालो गोपतिर्योद्धा कलिः स्फालः परात्परः ॥ ५६ ॥
मनोवेगी सदायोगी संसारभयनाशनः ।
तत्त्वदाताऽथ तत्त्वज्ञस्तत्त्वं तत्त्वप्रकाशकः ॥ ५७ ॥
शुद्धो बुद्धो नित्ययुक्तो भक्ताकारो जगद्रथः ।
प्रलयोऽमितमायश्च मायातीतो विमत्सरः ॥ ५८ ॥
मायानिर्जितरक्षाश्च मायानिर्मितविष्टपः ।
मायाश्रयश्च निर्लेपो मायानिर्वर्तकः सुखी ॥
सुखं सुखप्रदो नागो महेशकृतसंस्तवः ।
महेश्वरः सत्यसन्धः शरभः कलिपावनः ॥ ६० ॥
रसो रसज्ञः सन्मानो रूपं चक्षुः श्रुती रवः ।
घ्राणं गन्धः स्पर्शनं च स्पर्शो हिङ्कारमानगः ॥ ६१ ॥
नेतिनेतीतिगम्यश्च वैकुण्ठभजनप्रियः ।
गिरिशो गिरिजाकान्तो दुर्वासाः कविरङ्गिराः ॥ ६२ ॥
भृगुर्वसिष्ठश्च्यवनो नारदस्तुम्बुरुर्हरः ।
विश्वक्षेत्रं विश्वबीजं विश्वनेत्रं च विश्वपः ॥ ६३ ॥
याजको यजमानश्च पावकः पितरस्तथा ।
श्रद्धा बुद्धिः क्षमा तन्द्रा मन्त्रो मन्त्रयिता सुरः ॥ ६४ ॥
राजेन्द्रो भूपती रूढो माली संसारसारथिः ।
नित्यः सम्पूर्णकामश्च भक्तकामधुगुत्तमः ॥ ६५ ॥
गणपः केशवो भ्राता पिता माताऽथ मारुतिः ।
सहस्रमूर्धा सहस्रास्यः सहस्राक्षः सहस्रपात् ॥ ६६ ॥
कामजित् कामदहनः कामः काम्यफलप्रदः ।
मुद्रोपहारी रक्षोघ्नः क्षितिभारहरो बलः ॥ ६७ ॥
नखदंष्ट्रायुधो विष्णुभक्तो भक्ताभयप्रदः ।
दर्पहा दर्पदो दंष्ट्राशतमूर्तिरमूर्तिमान् ॥ ६८ ॥
महानिधिर्महाभागो महाभर्गो महर्धिदः ।
महाकारो महायोगी महातेजा महाद्युतिः ॥
महाकर्मा महानादो महामन्त्रो महामतिः ।
महाशमो महोदारो महादेवात्मको विभुः ॥ ७० ॥
रुद्रकर्मा क्रूरकर्मा रत्ननाभः कृतागमः ।
अम्भोधिलङ्घनः सिद्धः सत्यधर्मा प्रमोदनः ॥ ७१ ॥
जितामित्रो जयः सोमो विजयो वायुवाहनः ।
जीवो धाता सहस्रांशुर्मुकुन्दो भूरिदक्षिणः ॥ ७२ ॥
सिद्धार्थः सिद्धिदः सिद्धः सङ्कल्पः सिद्धिहेतुकः ।
सप्तपातालचरणः सप्तर्षिगणवन्दितः ॥ ७३ ॥
सप्ताब्धिलङ्घनो वीरः सप्तद्वीपोरुमण्डलः ।
सप्ताङ्गराज्यसुखदः सप्तमातृनिषेवितः ॥ ७४ ॥
सप्तलोकैकमकुटः सप्तहोत्रः स्वराश्रयः ।
सप्तसामोपगीतश्च सप्तपातालसंश्रयः ॥ ७५ ॥
सप्तच्छन्दोनिधिः सप्तच्छन्दः सप्तजनाश्रयः ।
मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः ॥ ७६ ॥
सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः ।
प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः ॥ ७७ ॥
पराभिचारशमनो दुःखहा बन्धमोक्षदः ।
नवद्वारपुराधारो नवद्वारनिकेतनः ॥ ७८ ॥
नरनारायणस्तुत्यो नवनाथमहेश्वरः ।
मेखली कवची खड्गी भ्राजिष्णुर्जिष्णुसारथिः ॥ ७९ ॥
बहुयोजनविस्तीर्णपुच्छः पुच्छहतासुरः ।
दुष्टहन्ता नियमिता पिशाचग्रहशातनः ॥ ८० ॥
बालग्रहविनाशी च धर्मनेता कृपाकरः ।
उग्रकृत्यश्चोग्रवेग उग्रनेत्रः शतक्रतुः ॥ ८१ ॥
शतमन्युस्तुतः स्तुत्यः स्तुतिः स्तोता महाबलः ।
समग्रगुणशाली च व्यग्रो रक्षोविनाशनः ॥ ८२ ॥
रक्षोऽग्निदावो ब्रह्मेशः श्रीधरो भक्तवत्सलः ।
मेघनादो मेघरूपो मेघवृष्टिनिवारणः ॥ ८३ ॥
मेघजीवनहेतुश्च मेघश्यामः परात्मकः ।
समीरतनयो धाता तत्त्वविद्याविशारदः ॥ ८४ ॥
अमोघोऽमोघवृष्टिश्चाभीष्टदोऽनिष्टनाशनः ।
अर्थोऽनर्थापहारी च समर्थो रामसेवकः ॥ ८५ ॥
अर्थी धन्योऽसुरारातिः पुण्डरीकाक्ष आत्मभूः ।
सङ्कर्षणो विशुद्धात्मा विद्याराशिः सुरेश्वरः ॥ ८६ ॥
अचलोद्धारको नित्यः सेतुकृद्रामसारथिः ।
आनन्दः परमानन्दो मत्स्यः कूर्मो निधिः शयः ॥ ८७ ॥
वराहो नारसिंहश्च वामनो जमदग्निजः ।
रामः कृष्णः शिवो बुद्धः कल्की रामाश्रयो हरिः ॥ ८८ ॥
नन्दी भृङ्गी च चण्डी च गणेशो गणसेवितः ।
कर्माध्यक्षः सुरारामो विश्रामो जगतीपतिः ॥
जगन्नाथः कपीशश्च सर्वावासः सदाश्रयः ।
सुग्रीवादिस्तुतो दान्तः सर्वकर्मा प्लवङ्गमः ॥ ९० ॥
नखदारितरक्षश्च नखयुद्धविशारदः ।
कुशलः सुधनः शेषो वासुकिस्तक्षकस्तथा ॥ ९१ ॥
स्वर्णवर्णो बलाढ्यश्च पुरुजेताऽघनाशनः ।
कैवल्यदीपः कैवल्यो गरुडः पन्नगो गुरुः ॥ ९२ ॥
क्लीक्लीरावहतारातिगर्वः पर्वतभेदनः ।
वज्राङ्गो वज्रवक्त्रश्च भक्तवज्रनिवारकः ॥ ९३ ॥
नखायुधो मणिग्रीवो ज्वालामाली च भास्करः ।
प्रौढप्रतापस्तपनो भक्ततापनिवारकः ॥ ९४ ॥
शरणं जीवनं भोक्ता नानाचेष्टोऽथ चञ्चलः ।
स्वस्थस्त्वस्वास्थ्यहा दुःखशातनः पवनात्मजः ॥ ९५ ॥
पवनः पावनः कान्तो भक्ताङ्गः सहनो बलः ।
मेघनादरिपुर्मेघनादसंहृतराक्षसः ॥ ९६ ॥
क्षरोऽक्षरो विनीतात्मा वानरेशः सताङ्गतिः ।
श्रीकण्ठः शितिकण्ठश्च सहायः सहनायकः ॥ ९७ ॥
अस्थूलस्त्वनणुर्भर्गो देवसंसृतिनाशनः ।
अध्यात्मविद्यासारश्चाप्यध्यात्मकुशलः सुधीः ॥ ९८ ॥
अकल्मषः सत्यहेतुः सत्यदः सत्यगोचरः ।
सत्यगर्भः सत्यरूपः सत्यः सत्यपराक्रमः ॥ ९९ ॥
अञ्जनाप्राणलिङ्गं च वायुवंशोद्भवः श्रुतिः ।
भद्ररूपो रुद्ररूपः सुरूपश्चित्ररूपधृक् ॥ १०० ॥
मैनाकवन्दितः सूक्ष्मदर्शनो विजयो जयः ।
क्रान्तदिङ्मण्डलो रुद्रः प्रकटीकृतविक्रमः ॥ १०१ ॥
कम्बुकण्ठः प्रसन्नात्मा ह्रस्वनासो वृकोदरः ।
लम्बोष्ठः कुण्डली चित्रमाली योगविदां वरः ॥ १०२ ॥
विपश्चित् कविरानन्दविग्रहोऽनल्पनाशनः ।
फाल्गुनीसूनुरव्यग्रो योगात्मा योगतत्परः ॥ १०३ ॥
योगविद्योगकर्ता च योगयोनिर्दिगम्बरः ।
अकारादिक्षकारान्तवर्णनिर्मितविग्रहः ॥ १०४ ॥
उलूखलमुखः सिद्धसंस्तुतः परमेश्वरः ।
श्लिष्टजङ्घः श्लिष्टजानुः श्लिष्टपाणिः शिखाधरः ॥ १०५ ॥
सुशर्माऽमितधर्मा च नारायणपरायणः ।
जिष्णुर्भविष्णू रोचिष्णुर्ग्रसिष्णुः स्थाणुरेव च ॥ १०६ ॥
हरी रुद्रानुकृद्वृक्षकम्पनो भूमिकम्पनः ।
गुणप्रवाहः सूत्रात्मा वीतरागः स्तुतिप्रियः ॥ १०७ ॥
नागकन्याभयध्वंसी कृतपूर्णः कपालभृत् ।
अनुकूलोऽक्षयोऽपायोऽनपायो वेदपारगः ॥ १०८ ॥
अक्षरः पुरुषो लोकनाथस्त्र्यक्षः प्रभुर्दृढः ।
अष्टाङ्गयोगफलभूः सत्यसन्धः पुरुष्टुतः ॥ १०९ ॥
श्मशानस्थाननिलयः प्रेतविद्रावणक्षमः ।
पञ्चाक्षरपरः पञ्चमातृको रञ्जनो ध्वजः ॥ ११० ॥
योगिनीवृन्दवन्द्यश्रीः शत्रुघ्नोऽनन्तविक्रमः ।
ब्रह्मचारीन्द्रियवपुर्धृतदण्डो दशात्मकः ॥ १११ ॥
अप्रपञ्चः सदाचारः शूरसेनो विदारकः ।
बुद्धः प्रमोद आनन्दः सप्तजिह्वपतिर्धरः ॥ ११२ ॥
नवद्वारपुराधारः प्रत्यग्रः सामगायनः ।
षट्चक्रधामा स्वर्लोकभयहृन्मानदो मदः ॥ ११३ ॥
सर्ववश्यकरः शक्तिरनन्तोऽनन्तमङ्गलः ।
अष्टमूर्तिधरो नेता विरूपः स्वरसुन्दरः ॥ ११४ ॥
धूमकेतुर्महाकेतुः सत्यकेतुर्महारथः ।
नन्दीप्रियः स्वतन्त्रश्च मेखली डमरुप्रियः ॥ ११५ ॥
लोहिताङ्गः समिद्वह्निः षडृतुः शर्व ईश्वरः ।
फलभुक् फलहस्तश्च सर्वकर्मफलप्रदः ॥ ११६ ॥
धर्माध्यक्षो धर्मफलो धर्मो धर्मप्रदोऽर्थदः ।
पञ्चविंशतितत्त्वज्ञस्तारको ब्रह्मतत्परः ॥ ११७ ॥
त्रिमार्गवसतिर्भीमः सर्वदुष्टनिबर्हणः ।
ऊर्जःस्वामी जलस्वामी शूली माली निशाकरः ॥ ११८ ॥
रक्ताम्बरधरो रक्तो रक्तमाल्यविभूषणः ।
वनमाली शुभाङ्गश्च श्वेतः श्वेताम्बरो युवा ॥ ११९ ॥
जयोऽजेयपरीवारः सहस्रवदनः कविः ।
शाकिनीडाकिनीयक्षरक्षोभूतप्रभञ्जनः ॥ १२० ॥
सद्योजातः कामगतिर्ज्ञानमूर्तिर्यशस्करः ।
शम्भुतेजाः सार्वभौमो विष्णुभक्तः प्लवङ्गमः ॥ १२१ ॥
चतुर्णवतिमन्त्रज्ञः पौलस्त्यबलदर्पहा ।
सर्वलक्ष्मीप्रदः श्रीमानङ्गदप्रियवर्धनः ॥ १२२ ॥
स्मृतिबीजं सुरेशानः संसारभयनाशनः ।
उत्तमः श्रीपरीवारः श्रीभूरुग्रश्च कामधुक् ॥ १२३ ॥
सदागतिर्मातरिश्वा रामपादाब्जषट्पदः ।
नीलप्रियो नीलवर्णो नीलवर्णप्रियः सुहृत् ॥ १२४ ॥
रामदूतो लोकबन्धुरन्तरात्मा मनोरमः ।
श्रीरामध्यानकृद्वीरः सदा किम्पुरुषस्तुतः ॥ १२५ ॥
रामकार्यान्तरङ्गश्च शुद्धिर्गतिरनामयः ।
पुण्यश्लोकः परानन्दः परेशप्रियसारथिः ॥ १२६ ॥
लोकस्वामी मुक्तिदाता सर्वकारणकारणः ।
महाबलो महावीरः पारावारगतिर्गुरुः ॥ १२७ ॥
तारको भगवांस्त्राता स्वस्तिदाता सुमङ्गलः ।
समस्तलोकसाक्षी च समस्तसुरवन्दितः ।
सीतासमेतश्रीरामपादसेवाधुरन्धरः ॥ १२८ ॥
इदं नामसहस्रं तु योऽधीते प्रत्यहं नरः ।
दुःखौघो नश्यते क्षिप्रं सम्पत्तिर्वर्धते चिरम् ॥ १२९ ॥
वश्यं चतुर्विधं तस्य भवत्येव न संशयः ।
राजानो राजपुत्राश्च राजकीयाश्च मन्त्रिणः ॥ १३० ॥
त्रिकालं पठनादस्य दृश्यन्ते च त्रिपक्षतः ।
अश्वत्थमूले जपतां नास्ति वैरिकृतं भयम् ॥ १३१ ॥
त्रिकालपठनादस्य सिद्धिः स्यात् करसंस्थिता ।
ब्राह्मे मुहूर्ते चोत्थाय प्रत्यहं यः पठेन्नरः ॥ १३२ ॥
ऐहिकामुष्मिकान् सोऽपि लभते नात्र संशयः ।
सङ्ग्रामे सन्निविष्टानां वैरिविद्रावणं भवेत् ॥ १३३ ॥
ज्वरापस्मारशमनं गुल्मादिव्याधिवारणम् ।
साम्राज्यसुखसम्पत्तिदायकं जपतां नृणाम् ॥ १३४ ॥
य इदं पठते नित्यं पाठयेद्वा समाहितः ।
सर्वान् कामानवाप्नोति वायुपुत्रप्रसादतः ॥ १३५ ॥
इति श्री हनुमत् सहस्रनाम स्तोत्रम् । ओं हनुमते नमः ।
ओं श्रीप्रदाय नमः ।
ओं वायुपुत्राय नमः ।
ओं रुद्राय नमः ।
ओं नयाय नमः ।
ओं अजराय नमः ।
ओं अमृत्यवे नमः ।
ओं वीरवीराय नमः ।
ओं ग्रामवासाय नमः ।
ओं जनाश्रयाय नमः ।
ओं धनदाय नमः ।
ओं निर्गुणाकाराय नमः ।
ओं वीराय नमः ।
ओं निधिपतये नमः ।
ओं मुनये नमः ।
ओं पिङ्गाक्षाय नमः ।
ओं वरदाय नमः ।
ओं वाग्मिने नमः ।
ओं सीताशोकविनाशनाय नमः ।
ओं शिवाय नमः । २०
ओं शर्वाय नमः ।
ओं पराय नमः ।
ओं अव्यक्ताय नमः ।
ओं व्यक्ताव्यक्ताय नमः ।
ओं धराधराय नमः ।
ओं पिङ्गकेशाय नमः ।
ओं पिङ्गरोमाय नमः ।
ओं श्रुतिगम्याय नमः ।
ओं सनातनाय नमः ।
ओं अनादये नमः ।
ओं भगवते नमः ।
ओं दिव्याय नमः ।
ओं विश्वहेतवे नमः ।
ओं नराश्रयाय नमः ।
ओं आरोग्यकर्त्रे नमः ।
ओं विश्वेशाय नमः ।
ओं विश्वनाथाय नमः ।
ओं हरीश्वराय नमः ।
ओं भर्गाय नमः ।
ओं रामाय नमः । ४०
ओं रामभक्ताय नमः ।
ओं कल्याणप्रकृतीश्वराय नमः ।
ओं विश्वम्भराय नमः ।
ओं विश्वमूर्तये नमः ।
ओं विश्वाकाराय नमः ।
ओं विश्वपाय नमः ।
ओं विश्वात्मने नमः ।
ओं विश्वसेव्याय नमः ।
ओं विश्वाय नमः ।
ओं विश्वधराय नमः ।
ओं रवये नमः ।
ओं विश्वचेष्टाय नमः ।
ओं विश्वगम्याय नमः ।
ओं विश्वध्येयाय नमः ।
ओं कलाधराय नमः ।
ओं प्लवङ्गमाय नमः ।
ओं कपिश्रेष्ठाय नमः ।
ओं ज्येष्ठाय नमः ।
ओं वेद्याय नमः ।
ओं वनेचराय नमः । ६०
ओं बालाय नमः ।
ओं वृद्धाय नमः ।
ओं यूने नमः ।
ओं तत्त्वाय नमः ।
ओं तत्त्वगम्याय नमः ।
ओं सखिने नमः ।
ओं अजाय नमः ।
ओं अञ्जनासूनवे नमः ।
ओं अव्यग्राय नमः ।
ओं ग्रामस्यान्ताय नमः ।
ओं धराधराय नमः ।
ओं भूर्लोकाय नमः ।
ओं भुवर्लोकाय नमः ।
ओं स्वर्लोकाय नमः ।
ओं महर्लोकाय नमः ।
ओं जनोलोकाय नमः ।
ओं तपोलोकाय नमः ।
ओं अव्ययाय नमः ।
ओं सत्याय नमः ।
ओं ओङ्कारगम्याय नमः । ८०
ओं प्रणवाय नमः ।
ओं व्यापकाय नमः ।
ओं अमलाय नमः ।
ओं शिवधर्मप्रतिष्ठात्रे नमः ।
ओं रामेष्टाय नमः ।
ओं फल्गुनप्रियाय नमः ।
ओं गोष्पदीकृतवारीशाय नमः ।
ओं पूर्णकामाय नमः ।
ओं धरापतये नमः ।
ओं रक्षोघ्नाय नमः ।
ओं पुण्डरीकाक्षाय नमः ।
ओं शरणागतवत्सलाय नमः ।
ओं जानकीप्राणदात्रे नमः ।
ओं रक्षःप्राणापहारकाय नमः ।
ओं पूर्णाय नमः ।
ओं सत्याय नमः ।
ओं पीतवाससे नमः ।
ओं दिवाकरसमप्रभाय नमः ।
ओं द्रोणहर्त्रे नमः ।
ओं शक्तिनेत्रे नमः । १००
ओं शक्तिराक्षसमारकाय नमः ।
ओं अक्षघ्नाय नमः ।
ओं रामदूताय नमः ।
ओं शाकिनीजीविताहराय नमः ।
ओं बुभूकारहतारातये नमः ।
ओं गर्वपर्वतमर्दनाय नमः ।
ओं हेतवे नमः ।
ओं अहेतवे नमः ।
ओं प्रांशवे नमः ।
ओं विश्वकर्त्रे नमः ।
ओं जगद्गुरवे नमः ।
ओं जगन्नाथाय नमः ।
ओं जगन्नेत्रे नमः ।
ओं जगदीशाय नमः ।
ओं जनेश्वराय नमः ।
ओं जगत्श्रिताय नमः ।
ओं हरये नमः ।
ओं श्रीशाय नमः ।
ओं गरुडस्मयभञ्जकाय नमः ।
ओं पार्थध्वजाय नमः । १२०
ओं वायुपुत्राय नमः ।
ओं सितपुच्छाय नमः ।
ओं अमितप्रभाय नमः ।
ओं ब्रह्मपुच्छाय नमः ।
ओं परब्रह्मपुच्छाय नमः ।
ओं रामेष्टकारकाय नमः ।
ओं सुग्रीवादियुताय नमः ।
ओं ज्ञानिने नमः ।
ओं वानराय नमः ।
ओं वानरेश्वराय नमः ।
ओं कल्पस्थायिने नमः ।
ओं चिरञ्जीविने नमः ।
ओं प्रसन्नाय नमः ।
ओं सदाशिवाय नमः ।
ओं सन्मतये नमः ।
ओं सद्गतये नमः ।
ओं भुक्तिमुक्तिदाय नमः ।
ओं कीर्तिदायकाय नमः ।
ओं कीर्तये नमः ।
ओं कीर्तिप्रदाय नमः । १४०
ओं समुद्राय नमः ।
ओं श्रीप्रदाय नमः ।
ओं शिवाय नमः ।
ओं उदधिक्रमणाय नमः ।
ओं देवाय नमः ।
ओं संसारभयनाशनाय नमः ।
ओं वालिबन्धनकृते नमः ।
ओं विश्वजेत्रे नमः ।
ओं विश्वप्रतिष्ठिताय नमः ।
ओं लङ्कारये नमः ।
ओं कालपुरुषाय नमः ।
ओं लङ्केशगृहभञ्जनाय नमः ।
ओं भूतावासाय नमः ।
ओं वासुदेवाय नमः ।
ओं वसवे नमः ।
ओं त्रिभुवनेश्वराय नमः ।
ओं श्रीरामरूपाय नमः ।
ओं कृष्णरूपाय नमः ।
ओं लङ्काप्रासादभञ्जनाय नमः ।
ओं कृष्णाय नमः । १६०
ओं कृष्णस्तुताय नमः ।
ओं शान्ताय नमः ।
ओं शान्तिदाय नमः ।
ओं विश्वभावनाय नमः ।
ओं विश्वभोक्त्रे नमः ।
ओं मारघ्नाय नमः ।
ओं ब्रह्मचारिणे नमः ।
ओं जितेन्द्रियाय नमः ।
ओं ऊर्ध्वगाय नमः ।
ओं लाङ्गुलिने नमः ।
ओं मालिने नमः ।
ओं लाङ्गूलाहतराक्षसाय नमः ।
ओं समीरतनुजाय नमः ।
ओं वीराय नमः ।
ओं वीरमाराय नमः ।
ओं जयप्रदाय नमः ।
ओं जगन्मङ्गलदाय नमः ।
ओं पुण्याय नमः ।
ओं पुण्यश्रवणकीर्तनाय नमः ।
ओं पुण्यकीर्तये नमः । १८०
ओं पुण्यगीतये नमः ।
ओं जगत्पावनपावनाय नमः ।
ओं देवेशाय नमः ।
ओं अमितरोम्णे नमः ।
ओं रामभक्तविधायकाय नमः ।
ओं ध्यात्रे नमः ।
ओं ध्येयाय नमः ।
ओं जगत्साक्षिणे नमः ।
ओं चेतसे नमः ।
ओं चैतन्यविग्रहाय नमः ।
ओं ज्ञानदाय नमः ।
ओं प्राणदाय नमः ।
ओं प्राणाय नमः ।
ओं जगत्प्राणाय नमः ।
ओं समीरणाय नमः ।
ओं विभीषणप्रियाय नमः ।
ओं शूराय नमः ।
ओं पिप्पलाश्रयसिद्धिदाय नमः ।
ओं सिद्धाय नमः ।
ओं सिद्धाश्रयाय नमः । २००
ओं कालाय नमः ।
ओं कालभक्षकपूजिताय नमः ।
ओं लङ्केशनिधनस्थायिने नमः ।
ओं लङ्कादाहकाय नमः ।
ओं ईश्वराय नमः ।
ओं चन्द्रसूर्याग्निनेत्राय नमः ।
ओं कालाग्नये नमः ।
ओं प्रलयान्तकाय नमः ।
ओं कपिलाय नमः ।
ओं कपिशाय नमः ।
ओं पुण्यरातये नमः ।
ओं द्वादशराशिगाय नमः ।
ओं सर्वाश्रयाय नमः ।
ओं अप्रमेयात्मने नमः ।
ओं रेवत्यादिनिवारकाय नमः ।
ओं लक्ष्मणप्राणदात्रे नमः ।
ओं सीताजीवनहेतुकाय नमः ।
ओं रामध्यायिने नमः ।
ओं हृषीकेशाय नमः ।
ओं विष्णुभक्ताय नमः । २२०
ओं जटिने नमः ।
ओं बलिने नमः ।
ओं देवारिदर्पघ्ने नमः ।
ओं होत्रे नमः ।
ओं धात्रे नमः ।
ओं कर्त्रे नमः ।
ओं जगत्प्रभवे नमः ।
ओं नगरग्रामपालाय नमः ।
ओं शुद्धाय नमः ।
ओं बुद्धाय नमः ।
ओं निरन्तराय नमः ।
ओं निरञ्जनाय नमः ।
ओं निर्विकल्पाय नमः ।
ओं गुणातीताय नमः ।
ओं भयङ्कराय नमः ।
ओं हनुमते नमः ।
ओं दुराराध्याय नमः ।
ओं तपःसाध्याय नमः ।
ओं महेश्वराय नमः ।
ओं जानकीघनशोकोत्थतापहर्त्रे नमः । २४०
ओं पराशराय नमः ।
ओं वाङ्मयाय नमः ।
ओं सदसद्रूपाय नमः ।
ओं कारणाय नमः ।
ओं प्रकृतेः पराय नमः ।
ओं भाग्यदाय नमः ।
ओं निर्मलाय नमः ।
ओं नेत्रे नमः ।
ओं पुच्छलङ्काविदाहकाय नमः ।
ओं पुच्छबद्धाय नमः ।
ओं यातुधानाय नमः ।
ओं यातुधानरिपुप्रियाय नमः ।
ओं छायापहारिणे नमः ।
ओं भूतेशाय नमः ।
ओं लोकेशाय नमः ।
ओं सद्गतिप्रदाय नमः ।
ओं प्लवङ्गमेश्वराय नमः ।
ओं क्रोधाय नमः ।
ओं क्रोधसंरक्तलोचनाय नमः ।
ओं क्रोधहर्त्रे नमः । २६०
ओं तापहर्त्रे नमः ।
ओं भक्ताभयवरप्रदाय नमः ।
ओं भक्तानुकम्पिने नमः ।
ओं विश्वेशाय नमः ।
ओं पुरुहूताय नमः ।
ओं पुरन्दराय नमः ।
ओं अग्नये नमः ।
ओं विभावसवे नमः ।
ओं भास्वते नमः ।
ओं यमाय नमः ।
ओं निरृतये नमः ।
ओं वरुणाय नमः ।
ओं वायुगतिमते नमः ।
ओं वायवे नमः ।
ओं कुबेराय नमः ।
ओं ईश्वराय नमः ।
ओं रवये नमः ।
ओं चन्द्राय नमः ।
ओं कुजाय नमः ।
ओं सौम्याय नमः । २८०
ओं गुरवे नमः ।
ओं काव्याय नमः ।
ओं शनैश्चराय नमः ।
ओं राहवे नमः ।
ओं केतवे नमः ।
ओं मरुते नमः ।
ओं दात्रे नमः ।
ओं धात्रे नमः ।
ओं हर्त्रे नमः ।
ओं समीरजाय नमः ।
ओं मशकीकृतदेवारये नमः ।
ओं दैत्यारये नमः ।
ओं मधुसूदनाय नमः ।
ओं कामाय नमः ।
ओं कपये नमः ।
ओं कामपालाय नमः ।
ओं कपिलाय नमः ।
ओं विश्वजीवनाय नमः ।
ओं भागीरथीपदाम्भोजाय नमः ।
ओं सेतुबन्धविशारदाय नमः । ३००
ओं स्वाहायै नमः ।
ओं स्वधायै नमः ।
ओं हविषे नमः ।
ओं कव्याय नमः ।
ओं हव्यवाहाय नमः ।
ओं प्रकाशकाय नमः ।
ओं स्वप्रकाशाय नमः ।
ओं महावीराय नमः ।
ओं मधुराय नमः ।
ओं अमितविक्रमाय नमः ।
ओं उड्डीनोड्डीनगतिमते नमः ।
ओं सद्गतये नमः ।
ओं पुरुषोत्तमाय नमः ।
ओं जगदात्मने नमः ।
ओं जगद्योनये नमः ।
ओं जगदन्ताय नमः ।
ओं अनन्तराय नमः ।
ओं विपाप्मने नमः ।
ओं निष्कलङ्काय नमः ।
ओं महते नमः । ३२०
ओं महदहङ्कृतये नमः ।
ओं खाय नमः ।
ओं वायवे नमः ।
ओं पृथिव्यै नमः ।
ओं अद्भ्यः नमः ।
ओं वह्नये नमः ।
ओं दिशे नमः ।
ओं कालाय नमः ।
ओं एकलाय नमः ।
ओं क्षेत्रज्ञाय नमः ।
ओं क्षेत्रपालाय नमः ।
ओं पल्वलीकृतसागराय नमः ।
ओं हिरण्मयाय नमः ।
ओं पुराणाय नमः ।
ओं खेचराय नमः ।
ओं भूचराय नमः ।
ओं मनवे नमः ।
ओं हिरण्यगर्भाय नमः ।
ओं सूत्रात्मने नमः ।
ओं राजराजाय नमः । ३४०
ओं विशां पतये नमः ।
ओं वेदान्तवेद्याय नमः ।
ओं उद्गीथाय नमः ।
ओं वेदाङ्गाय नमः ।
ओं वेदपारगाय नमः ।
ओं प्रतिग्रामस्थिताय नमः ।
ओं सद्यः स्फूर्तिदात्रे नमः ।
ओं गुणाकराय नमः ।
ओं नक्षत्रमालिने नमः ।
ओं भूतात्मने नमः ।
ओं सुरभये नमः ।
ओं कल्पपादपाय नमः ।
ओं चिन्तामणये नमः ।
ओं गुणनिधये नमः ।
ओं प्रजाद्वाराय नमः ।
ओं अनुत्तमाय नमः ।
ओं पुण्यश्लोकाय नमः ।
ओं पुरारातये नमः ।
ओं मतिमते नमः ।
ओं शर्वरीपतये नमः । ३६०
ओं किल्किलारावसन्त्रस्तभूतप्रेतपिशाचकाय नमः ।
ओं ऋणत्रयहराय नमः ।
ओं सूक्ष्माय नमः ।
ओं स्थूलाय नमः ।
ओं सर्वगतये नमः ।
ओं पुंसे नमः ।
ओं अपस्मारहराय नमः ।
ओं स्मर्त्रे नमः ।
ओं श्रुतये नमः ।
ओं गाथाय नमः ।
ओं स्मृतये नमः ।
ओं मनवे नमः ।
ओं स्वर्गद्वाराय नमः ।
ओं प्रजाद्वाराय नमः ।
ओं मोक्षद्वाराय नमः ।
ओं यतीश्वराय नमः ।
ओं नादरूपाय नमः ।
ओं परस्मै ब्रह्मणे नमः ।
ओं ब्रह्मणे नमः ।
ओं ब्रह्मपुरातनाय नमः । ३८०
ओं एकाय नमः ।
ओं अनेकाय नमः ।
ओं जनाय नमः ।
ओं शुक्लाय नमः ।
ओं स्वयञ्ज्योतिषे नमः ।
ओं अनाकुलाय नमः ।
ओं ज्योतिर्ज्योतिषे नमः ।
ओं अनादये नमः ।
ओं सात्त्विकाय नमः ।
ओं राजसाय नमः ।
ओं तमसे नमः ।
ओं तमोहर्त्रे नमः ।
ओं निरालम्बाय नमः ।
ओं निराकाराय नमः ।
ओं गुणाकराय नमः ।
ओं गुणाश्रयाय नमः ।
ओं गुणमयाय नमः ।
ओं बृहत्कायाय नमः ।
ओं बृहद्यशसे नमः ।
ओं बृहद्धनुषे नमः । ४००
ओं बृहत्पादाय नमः ।
ओं बृहन्मूर्ध्ने नमः ।
ओं बृहत्स्वनाय नमः ।
ओं बृहत्कर्णाय नमः ।
ओं बृहन्नासाय नमः ।
ओं बृहद्बाहवे नमः ।
ओं बृहत्तनवे नमः ।
ओं बृहद्गलाय नमः ।
ओं बृहत्कायाय नमः ।
ओं बृहत्पुच्छाय नमः ।
ओं बृहत्कराय नमः ।
ओं बृहद्गतये नमः ।
ओं बृहत्सेवाय नमः ।
ओं बृहल्लोकफलप्रदाय नमः ।
ओं बृहद्भक्तये नमः ।
ओं बृहद्वाञ्छाफलदाय नमः ।
ओं बृहदीश्वराय नमः ।
ओं बृहल्लोकनुताय नमः ।
ओं द्रष्ट्रे नमः ।
ओं विद्यादात्रे नमः । ४२०
ओं जगद्गुरवे नमः ।
ओं देवाचार्याय नमः ।
ओं सत्यवादिने नमः ।
ओं ब्रह्मवादिने नमः ।
ओं कलाधराय नमः ।
ओं सप्तपातालगामिने नमः ।
ओं मलयाचलसंश्रयाय नमः ।
ओं उत्तराशास्थिताय नमः ।
ओं श्रीशाय नमः ।
ओं दिव्यौषधिवशाय नमः ।
ओं खगाय नमः ।
ओं शाखामृगाय नमः ।
ओं कपीन्द्राय नमः ।
ओं पुराणाय नमः ।
ओं प्राणचञ्चुराय नमः ।
ओं चतुराय नमः ।
ओं ब्राह्मणाय नमः ।
ओं योगिने नमः ।
ओं योगिगम्याय नमः ।
ओं पराय नमः । ४४०
ओं अवराय नमः ।
ओं अनादिनिधनाय नमः ।
ओं व्यासाय नमः ।
ओं वैकुण्ठाय नमः ।
ओं पृथिवीपतये नमः ।
ओं अपराजिताय नमः ।
ओं जितारातये नमः ।
ओं सदानन्ददाय नमः ।
ओं ईशित्रे नमः ।
ओं गोपालाय नमः ।
ओं गोपतये नमः ।
ओं योद्धाय नमः ।
ओं कलये नमः ।
ओं स्फालाय नमः ।
ओं परात्पराय नमः ।
ओं मनोवेगिने नमः ।
ओं सदायोगिने नमः ।
ओं संसारभयनाशनाय नमः ।
ओं तत्त्वदात्रे नमः ।
ओं तत्त्वज्ञाय नमः । ४६०
ओं तत्त्वाय नमः ।
ओं तत्त्वप्रकाशकाय नमः ।
ओं शुद्धाय नमः ।
ओं बुद्धाय नमः ।
ओं नित्ययुक्ताय नमः ।
ओं भक्ताकाराय नमः ।
ओं जगद्रथाय नमः ।
ओं प्रलयाय नमः ।
ओं अमितमायाय नमः ।
ओं मायातीताय नमः ।
ओं विमत्सराय नमः ।
ओं मायानिर्जितरक्षसे नमः ।
ओं मायानिर्मितविष्टपाय नमः ।
ओं मायाश्रयाय नमः ।
ओं निर्लेपाय नमः ।
ओं मायानिर्वर्तकाय नमः ।
ओं सुखिने नमः ।
ओं सुखाय नमः ।
ओं सुखप्रदाय नमः ।
ओं नागाय नमः । ४८०
ओं महेशकृतसंस्तवाय नमः ।
ओं महेश्वराय नमः ।
ओं सत्यसन्धाय नमः ।
ओं शरभाय नमः ।
ओं कलिपावनाय नमः ।
ओं रसाय नमः ।
ओं रसज्ञाय नमः ।
ओं सते नमः ।
ओं मानाय नमः ।
ओं रूपाय नमः ।
ओं चक्षुषे नमः ।
ओं श्रुतये नमः ।
ओं रवाय नमः ।
ओं घ्राणाय नमः ।
ओं गन्धाय नमः ।
ओं स्पर्शनाय नमः ।
ओं स्पर्शाय नमः ।
ओं हिङ्कारमानगाय नमः ।
ओं नेतिनेतीतिगम्याय नमः ।
ओं वैकुण्ठभजनप्रियाय नमः । ५००
ओं गिरिशाय नमः ।
ओं गिरिजाकान्ताय नमः ।
ओं दुर्वाससे नमः ।
ओं कवये नमः ।
ओं अङ्गिरसे नमः ।
ओं भृगवे नमः ।
ओं वसिष्ठाय नमः ।
ओं च्यवनाय नमः ।
ओं नारदाय नमः ।
ओं तुम्बुरवे नमः ।
ओं हराय नमः ।
ओं विश्वक्षेत्राय नमः ।
ओं विश्वबीजाय नमः ।
ओं विश्वनेत्राय नमः ।
ओं विश्वपाय नमः ।
ओं याजकाय नमः ।
ओं यजमानाय नमः ।
ओं पावकाय नमः ।
ओं पितृभ्यः नमः ।
ओं श्रद्धये नमः । ५२०
ओं बुद्धये नमः ।
ओं क्षमाय नमः ।
ओं तन्द्राय नमः ।
ओं मन्त्राय नमः ।
ओं मन्त्रयित्रे नमः ।
ओं सुराय नमः ।
ओं राजेन्द्राय नमः ।
ओं भूपतये नमः ।
ओं रूढाय नमः ।
ओं मालिने नमः ।
ओं संसारसारथये नमः ।
ओं नित्याय नमः ।
ओं सम्पूर्णकामाय नमः ।
ओं भक्तकामदुहे नमः ।
ओं उत्तमाय नमः ।
ओं गणपाय नमः ।
ओं केशवाय नमः ।
ओं भ्रात्रे नमः ।
ओं पित्रे नमः ।
ओं मात्रे नमः । ५४०
ओं मारुतये नमः ।
ओं सहस्रमूर्ध्ने नमः ।
ओं सहस्रास्याय नमः ।
ओं सहस्राक्षाय नमः ।
ओं सहस्रपदे नमः ।
ओं कामजिते नमः ।
ओं कामदहनाय नमः ।
ओं कामाय नमः ।
ओं काम्यफलप्रदाय नमः ।
ओं मुद्रोपहारिणे नमः ।
ओं रक्षोघ्नाय नमः ।
ओं क्षितिभारहराय नमः ।
ओं बलाय नमः ।
ओं नखदंष्ट्रायुधाय नमः ।
ओं विष्णुभक्ताय नमः ।
ओं भक्ताभयप्रदाय नमः ।
ओं दर्पघ्ने नमः ।
ओं दर्पदाय नमः ।
ओं दंष्ट्राशतमूर्तये नमः ।
ओं अमूर्तिमते नमः । ५६०
ओं महानिधये नमः ।
ओं महाभागाय नमः ।
ओं महाभर्गाय नमः ।
ओं महर्धिदाय नमः ।
ओं महाकाराय नमः ।
ओं महायोगिने नमः ।
ओं महातेजाय नमः ।
ओं महाद्युतये नमः ।
ओं महाकर्मणे नमः ।
ओं महानादाय नमः ।
ओं महामन्त्राय नमः ।
ओं महामतये नमः ।
ओं महाशमाय नमः ।
ओं महोदाराय नमः ।
ओं महादेवात्मकाय नमः ।
ओं विभवे नमः ।
ओं रुद्रकर्मणे नमः ।
ओं क्रूरकर्मणे नमः ।
ओं रत्ननाभाय नमः ।
ओं कृतागमाय नमः । ५८०
ओं अम्भोधिलङ्घनाय नमः ।
ओं सिद्धाय नमः ।
ओं सत्यधर्मणे नमः ।
ओं प्रमोदनाय नमः ।
ओं जितामित्राय नमः ।
ओं जयाय नमः ।
ओं सोमाय नमः ।
ओं विजयाय नमः ।
ओं वायुवाहनाय नमः ।
ओं जीवाय नमः ।
ओं धात्रे नमः ।
ओं सहस्रांशवे नमः ।
ओं मुकुन्दाय नमः ।
ओं भूरिदक्षिणाय नमः ।
ओं सिद्धार्थाय नमः ।
ओं सिद्धिदाय नमः ।
ओं सिद्धाय नमः ।
ओं सङ्कल्पाय नमः ।
ओं सिद्धिहेतुकाय नमः ।
ओं सप्तपातालचरणाय नमः । ६००
ओं सप्तर्षिगणवन्दिताय नमः ।
ओं सप्ताब्धिलङ्घनाय नमः ।
ओं वीराय नमः ।
ओं सप्तद्वीपोरुमण्डलाय नमः ।
ओं सप्ताङ्गराज्यसुखदाय नमः ।
ओं सप्तमातृनिषेविताय नमः ।
ओं सप्तलोकैकमकुटाय नमः ।
ओं सप्तहोत्राय नमः ।
ओं स्वराश्रयाय नमः ।
ओं सप्तसामोपगीताय नमः ।
ओं सप्तपातालसंश्रयाय नमः ।
ओं सप्तच्छन्दोनिधये नमः ।
ओं सप्तच्छन्दाय नमः ।
ओं सप्तजनाश्रयाय नमः ।
ओं मेधादाय नमः ।
ओं कीर्तिदाय नमः ।
ओं शोकहारिणे नमः ।
ओं दौर्भाग्यनाशनाय नमः ।
ओं सर्ववश्यकराय नमः ।
ओं गर्भदोषघ्ने नमः । ६२०
ओं पुत्रपौत्रदाय नमः ।
ओं प्रतिवादिमुखस्तम्भाय नमः ।
ओं रुष्टचित्तप्रसादनाय नमः ।
ओं पराभिचारशमनाय नमः ।
ओं दुःखघ्ने नमः ।
ओं बन्धमोक्षदाय नमः ।
ओं नवद्वारपुराधाराय नमः ।
ओं नवद्वारनिकेतनाय नमः ।
ओं नरनारायणस्तुत्याय नमः ।
ओं नवनाथमहेश्वराय नमः ।
ओं मेखलिने नमः ।
ओं कवचिने नमः ।
ओं खड्गिने नमः ।
ओं भ्राजिष्णवे नमः ।
ओं जिष्णुसारथये नमः ।
ओं बहुयोजनविस्तीर्णपुच्छाय नमः ।
ओं पुच्छहतासुराय नमः ।
ओं दुष्टहन्त्रे नमः ।
ओं नियमित्रे नमः ।
ओं पिशाचग्रहशातनाय नमः । ६४०
ओं बालग्रहविनाशिने नमः ।
ओं धर्मनेत्रे नमः ।
ओं कृपाकराय नमः ।
ओं उग्रकृत्याय नमः ।
ओं उग्रवेगाय नमः ।
ओं उग्रनेत्राय नमः ।
ओं शतक्रतवे नमः ।
ओं शतमन्युस्तुताय नमः ।
ओं स्तुत्याय नमः ।
ओं स्तुतये नमः ।
ओं स्तोत्रे नमः ।
ओं महाबलाय नमः ।
ओं समग्रगुणशालिने नमः ।
ओं व्यग्राय नमः ।
ओं रक्षोविनाशनाय नमः ।
ओं रक्षोग्निदावाय नमः ।
ओं ब्रह्मेशाय नमः ।
ओं श्रीधराय नमः ।
ओं भक्तवत्सलाय नमः ।
ओं मेघनादाय नमः । ६६०
ओं मेघरूपाय नमः ।
ओं मेघवृष्टिनिवारणाय नमः ।
ओं मेघजीवनहेतवे नमः ।
ओं मेघश्यामाय नमः ।
ओं परात्मकाय नमः ।
ओं समीरतनयाय नमः ।
ओं धात्रे नमः ।
ओं तत्त्वविद्याविशारदाय नमः ।
ओं अमोघाय नमः ।
ओं अमोघवृष्टये नमः ।
ओं अभीष्टदाय नमः ।
ओं अनिष्टनाशनाय नमः ।
ओं अर्थाय नमः ।
ओं अनर्थापहारिणे नमः ।
ओं समर्थाय नमः ।
ओं रामसेवकाय नमः ।
ओं अर्थिने नमः ।
ओं धन्याय नमः ।
ओं असुरारातये नमः ।
ओं पुण्डरीकाक्षाय नमः । ६८०
ओं आत्मभुवे नमः ।
ओं सङ्कर्षणाय नमः ।
ओं विशुद्धात्मने नमः ।
ओं विद्याराशये नमः ।
ओं सुरेश्वराय नमः ।
ओं अचलोद्धारकाय नमः ।
ओं नित्याय नमः ।
ओं सेतुकृते नमः ।
ओं रामसारथये नमः ।
ओं आनन्दाय नमः ।
ओं परमानन्दाय नमः ।
ओं मत्स्याय नमः ।
ओं कूर्माय नमः ।
ओं निधये नमः ।
ओं शयाय नमः ।
ओं वराहाय नमः ।
ओं नारसिंहाय नमः ।
ओं वामनाय नमः ।
ओं जमदग्निजाय नमः ।
ओं रामाय नमः । ७००
ओं कृष्णाय नमः ।
ओं शिवाय नमः ।
ओं बुद्धाय नमः ।
ओं कल्किने नमः ।
ओं रामाश्रयाय नमः ।
ओं हरये नमः ।
ओं नन्दिने नमः ।
ओं भृङ्गिणे नमः ।
ओं चण्डिने नमः ।
ओं गणेशाय नमः ।
ओं गणसेविताय नमः ।
ओं कर्माध्यक्षाय नमः ।
ओं सुरारामाय नमः ।
ओं विश्रामाय नमः ।
ओं जगतीपतये नमः ।
ओं जगन्नाथाय नमः ।
ओं कपीशाय नमः ।
ओं सर्वावासाय नमः ।
ओं सदाश्रयाय नमः ।
ओं सुग्रीवादिस्तुताय नमः । ७२०
ओं दान्ताय नमः ।
ओं सर्वकर्मणे नमः ।
ओं प्लवङ्गमाय नमः ।
ओं नखदारितरक्षसे नमः ।
ओं नखयुद्धविशारदाय नमः ।
ओं कुशलाय नमः ।
ओं सुधनाय नमः ।
ओं शेषाय नमः ।
ओं वासुकये नमः ।
ओं तक्षकाय नमः ।
ओं स्वर्णवर्णाय नमः ।
ओं बलाढ्याय नमः ।
ओं पुरुजेत्रे नमः ।
ओं अघनाशनाय नमः ।
ओं कैवल्यदीपाय नमः ।
ओं कैवल्याय नमः ।
ओं गरुडाय नमः ।
ओं पन्नगाय नमः ।
ओं गुरवे नमः ।
ओं क्लीक्लीरावहतारातिगर्वाय नमः । ७४०
ओं पर्वतभेदनाय नमः ।
ओं वज्राङ्गाय नमः ।
ओं वज्रवक्त्राय नमः ।
ओं भक्तवज्रनिवारकाय नमः ।
ओं नखायुधाय नमः ।
ओं मणिग्रीवाय नमः ।
ओं ज्वालामालिने नमः ।
ओं भास्कराय नमः ।
ओं प्रौढप्रतापाय नमः ।
ओं तपनाय नमः ।
ओं भक्ततापनिवारकाय नमः ।
ओं शरणाय नमः ।
ओं जीवनाय नमः ।
ओं भोक्त्रे नमः ।
ओं नानाचेष्टाय नमः ।
ओं चञ्चलाय नमः ।
ओं स्वस्थाय नमः ।
ओं अस्वास्थ्यघ्ने नमः ।
ओं दुःखशातनाय नमः ।
ओं पवनात्मजाय नमः । ७६०
ओं पवनाय नमः ।
ओं पावनाय नमः ।
ओं कान्ताय नमः ।
ओं भक्ताङ्गाय नमः ।
ओं सहनाय नमः ।
ओं बलाय नमः ।
ओं मेघनादरिपवे नमः ।
ओं मेघनादसंहृतराक्षसाय नमः ।
ओं क्षराय नमः ।
ओं अक्षराय नमः ।
ओं विनीतात्मने नमः ।
ओं वानरेशाय नमः ।
ओं सताङ्गतये नमः ।
ओं श्रीकण्ठाय नमः ।
ओं शितिकण्ठाय नमः ।
ओं सहायाय नमः ।
ओं सहनायकाय नमः ।
ओं अस्थूलाय नमः ।
ओं अनणवे नमः ।
ओं भर्गाय नमः । ७८०
ओं देवसंसृतिनाशनाय नमः ।
ओं अध्यात्मविद्यासाराय नमः ।
ओं अध्यात्मकुशलाय नमः ।
ओं सुधिये नमः ।
ओं अकल्मषाय नमः ।
ओं सत्यहेतवे नमः ।
ओं सत्यदाय नमः ।
ओं सत्यगोचराय नमः ।
ओं सत्यगर्भाय नमः ।
ओं सत्यरूपाय नमः ।
ओं सत्याय नमः ।
ओं सत्यपराक्रमाय नमः ।
ओं अञ्जनाप्राणलिङ्गाय नमः ।
ओं वायुवंशोद्भवाय नमः ।
ओं श्रुतये नमः ।
ओं भद्ररूपाय नमः ।
ओं रुद्ररूपाय नमः ।
ओं सुरूपाय नमः ।
ओं चित्ररूपधृशे नमः ।
ओं मैनाकवन्दिताय नमः । ८००
ओं सूक्ष्मदर्शनाय नमः ।
ओं विजयाय नमः ।
ओं जयाय नमः ।
ओं क्रान्तदिङ्मण्डलाय नमः ।
ओं रुद्राय नमः ।
ओं प्रकटीकृतविक्रमाय नमः ।
ओं कम्बुकण्ठाय नमः ।
ओं प्रसन्नात्मने नमः ।
ओं ह्रस्वनासाय नमः ।
ओं वृकोदराय नमः ।
ओं लम्बोष्ठाय नमः ।
ओं कुण्डलिने नमः ।
ओं चित्रमालिने नमः ।
ओं योगविदां वराय नमः ।
ओं विपश्चिते नमः ।
ओं कवये नमः ।
ओं आनन्दविग्रहाय नमः ।
ओं अनल्पनाशनाय नमः ।
ओं फाल्गुनीसूनवे नमः ।
ओं अव्यग्राय नमः । ८२०
ओं योगात्मने नमः ।
ओं योगतत्पराय नमः ।
ओं योगविदे नमः ।
ओं योगकर्त्रे नमः ।
ओं योगयोनये नमः ।
ओं दिगम्बराय नमः ।
ओं अकारादिक्षकारान्तवर्णनिर्मितविग्रहाय नमः ।
ओं उलूखलमुखाय नमः ।
ओं सिद्धसंस्तुताय नमः ।
ओं परमेश्वराय नमः ।
ओं श्लिष्टजङ्घाय नमः ।
ओं श्लिष्टजानवे नमः ।
ओं श्लिष्टपाणये नमः ।
ओं शिखाधराय नमः ।
ओं सुशर्मणे नमः ।
ओं अमितधर्मणे नमः ।
ओं नारायणपरायणाय नमः ।
ओं जिष्णवे नमः ।
ओं भविष्णवे नमः ।
ओं रोचिष्णवे नमः । ८४०
ओं ग्रसिष्णवे नमः ।
ओं स्थाणवे नमः ।
ओं हरये नमः ।
ओं रुद्रानुकृते नमः ।
ओं वृक्षकम्पनाय नमः ।
ओं भूमिकम्पनाय नमः ।
ओं गुणप्रवाहाय नमः ।
ओं सूत्रात्मने नमः ।
ओं वीतरागाय नमः ।
ओं स्तुतिप्रियाय नमः ।
ओं नागकन्याभयध्वंसिने नमः ।
ओं कृतपूर्णाय नमः ।
ओं कपालभृते नमः ।
ओं अनुकूलाय नमः ।
ओं अक्षयाय नमः ।
ओं अपायाय नमः ।
ओं अनपायाय नमः ।
ओं वेदपारगाय नमः ।
ओं अक्षराय नमः ।
ओं पुरुषाय नमः । ८६०
ओं लोकनाथाय नमः ।
ओं त्र्यक्षाय नमः ।
ओं प्रभवे नमः ।
ओं दृढाय नमः ।
ओं अष्टाङ्गयोगफलभुवे नमः ।
ओं सत्यसन्धाय नमः ।
ओं पुरुष्टुताय नमः ।
ओं श्मशानस्थाननिलयाय नमः ।
ओं प्रेतविद्रावणक्षमाय नमः ।
ओं पञ्चाक्षरपराय नमः ।
ओं पञ्चमातृकाय नमः ।
ओं रञ्जनाय नमः ।
ओं ध्वजाय नमः ।
ओं योगिनीवृन्दवन्द्यश्रिये नमः ।
ओं शत्रुघ्नाय नमः ।
ओं अनन्तविक्रमाय नमः ।
ओं ब्रह्मचारिणे नमः ।
ओं इन्द्रियवपुषे नमः ।
ओं धृतदण्डाय नमः ।
ओं दशात्मकाय नमः । ८८०
ओं अप्रपञ्चाय नमः ।
ओं सदाचाराय नमः ।
ओं शूरसेनाय नमः ।
ओं विदारकाय नमः ।
ओं बुद्धाय नमः ।
ओं प्रमोदाय नमः ।
ओं आनन्दाय नमः ।
ओं सप्तजिह्वपतये नमः ।
ओं धराय नमः ।
ओं नवद्वारपुराधाराय नमः ।
ओं प्रत्यग्राय नमः ।
ओं सामगायनाय नमः ।
ओं षट्चक्रधाम्ने नमः ।
ओं स्वर्लोकभयहृते नमः ।
ओं मानदाय नमः ।
ओं मदाय नमः ।
ओं सर्ववश्यकराय नमः ।
ओं शक्तये नमः ।
ओं अनन्ताय नमः ।
ओं अनन्तमङ्गलाय नमः । ९००
ओं अष्टमूर्तिधराय नमः ।
ओं नेत्रे नमः ।
ओं विरूपाय नमः ।
ओं स्वरसुन्दराय नमः ।
ओं धूमकेतवे नमः ।
ओं महाकेतवे नमः ।
ओं सत्यकेतवे नमः ।
ओं महारथाय नमः ।
ओं नन्दिने नमः ।
ओं प्रियाय नमः ।
ओं स्वतन्त्राय नमः ।
ओं मेखलिने नमः ।
ओं डमरुप्रियाय नमः ।
ओं लोहिताङ्गाय नमः ।
ओं समिधे नमः ।
ओं वह्नये नमः ।
ओं षडृतवे नमः ।
ओं शर्वाय नमः ।
ओं ईश्वराय नमः ।
ओं फलभुजे नमः । ९२०
ओं फलहस्ताय नमः ।
ओं सर्वकर्मफलप्रदाय नमः ।
ओं धर्माध्यक्षाय नमः ।
ओं धर्मफलाय नमः ।
ओं धर्माय नमः ।
ओं धर्मप्रदाय नमः ।
ओं अर्थदाय नमः ।
ओं पञ्चविंशतितत्त्वज्ञाय नमः ।
ओं तारकाय नमः ।
ओं ब्रह्मतत्पराय नमः ।
ओं त्रिमार्गवसतये नमः ।
ओं भीमाय नमः ।
ओं सर्वदुष्टनिबर्हणाय नमः ।
ओं ऊर्जःस्वामिने नमः ।
ओं जलस्वामिने नमः ।
ओं शूलिने नमः ।
ओं मालिने नमः ।
ओं निशाकराय नमः ।
ओं रक्ताम्बरधराय नमः ।
ओं रक्ताय नमः । ९४०
ओं रक्तमाल्यविभूषणाय नमः ।
ओं वनमालिने नमः ।
ओं शुभाङ्गाय नमः ।
ओं श्वेताय नमः ।
ओं श्वेताम्बराय नमः ।
ओं युवाय नमः ।
ओं जयाय नमः ।
ओं अजेयपरीवाराय नमः ।
ओं सहस्रवदनाय नमः ।
ओं कवये नमः ।
ओं शाकिनीडाकिनीयक्षरक्षोभूतप्रभञ्जनाय नमः ।
ओं सद्योजाताय नमः ।
ओं कामगतये नमः ।
ओं ज्ञानमूर्तये नमः ।
ओं यशस्कराय नमः ।
ओं शम्भुतेजसे नमः ।
ओं सार्वभौमाय नमः ।
ओं विष्णुभक्ताय नमः ।
ओं प्लवङ्गमाय नमः ।
ओं चतुर्णवतिमन्त्रज्ञाय नमः । ९६०
ओं पौलस्त्यबलदर्पघ्ने नमः ।
ओं सर्वलक्ष्मीप्रदाय नमः ।
ओं श्रीमते नमः ।
ओं अङ्गदप्रियवर्धनाय नमः ।
ओं स्मृतिबीजाय नमः ।
ओं सुरेशानाय नमः ।
ओं संसारभयनाशनाय नमः ।
ओं उत्तमाय नमः ।
ओं श्रीपरीवाराय नमः ।
ओं श्रीभुवे नमः ।
ओं उग्राय नमः ।
ओं कामदुहे नमः ।
ओं सदागतये नमः ।
ओं मातरिश्वने नमः ।
ओं रामपादाब्जषट्पदाय नमः ।
ओं नीलप्रियाय नमः ।
ओं नीलवर्णाय नमः ।
ओं नीलवर्णप्रियाय नमः ।
ओं सुहृदे नमः ।
ओं रामदूताय नमः । ९८०
ओं लोकबन्धवे नमः ।
ओं अन्तरात्मने नमः ।
ओं मनोरमाय नमः ।
ओं श्रीरामध्यानकृते नमः ।
ओं वीराय नमः ।
ओं सदा किम्पुरुषस्तुताय नमः ।
ओं रामकार्यान्तरङ्गाय नमः ।
ओं शुद्धये नमः ।
ओं गत्यै नमः ।
ओं अनामयाय नमः ।
ओं पुण्यश्लोकाय नमः ।
ओं परानन्दाय नमः ।
ओं परेशप्रियसारथये नमः ।
ओं लोकस्वामिने नमः ।
ओं मुक्तिदात्रे नमः ।
ओं सर्वकारणकारणाय नमः ।
ओं महाबलाय नमः ।
ओं महावीराय नमः ।
ओं पारावारगतये नमः ।
ओं गुरवे नमः । १०००
ओं तारकाय नमः ।
ओं भगवते नमः ।
ओं त्रात्रे नमः ।
ओं स्वस्तिदात्रे नमः ।
ओं सुमङ्गलाय नमः ।
ओं समस्तलोकसाक्षिणे नमः ।
ओं समस्तसुरवन्दिताय नमः ।
ओं सीतासमेत श्रीरामपादसेवा धुरन्धराय नमः । १००८
इति श्री हनुमत्सहस्रनामावली ।
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.